दुर्गा सप्तश्लोकी

सर्वमेङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके। शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते।।

MANTRA

Sandeep Bhatt

1/6/20261 min read

A golden statue of a lion holding a sword

-शिव उवाच-

देवि त्वम भक्त सुलभे सर्वकार्यविधायिनी ।

कलौ हि कार्यसिद्धयर्थम् उपायं ब्रुहि यत्नतः।।

-देव्युवाच-

श्रृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम।

मया तवैव स्नेहेनाप्यम्बास्तुति प्रकाश्यते ।।

ॐ ज्ञानिनामपि चेतांसि देवी भगवती हि सा।

बलादाकृष्य मोहाय महामाया प्रयच्छति।।1।।

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः, स्वस्थैः स्मृता मतिमतीव शुभां ददासि।

दारिद्रयदुःखभयहारिणि का त्वदन्या, सर्वोपकार-करणाय सदार्द्रचिता।।2।।

सर्वमेङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके।

शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते।।3।।

शरणागतदीनार्परित्राण-परायणे।

सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते।।4।।

सर्वस्वरूपे सर्वशे सर्वशक्तिसमन्विते ।

भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते।।5।।

रोगा-न-शेषा-नपहंसि तुष्टा, रुष्टा तु कामान् सकलान-भीष्टान्।

त्वामाश्रितानां न विपन्नराणां, त्वामाश्रिता ह्या-श्रयताम् प्रयान्ति।।6।।

सर्वाबाधा-प्रशमनम् त्रैलोक्यस्याखिलेश्वरि।

एवमेव त्वया कार्यमस्मद्वैरिविनाशनम्।।7।।

भिद्यते हृदय-ग्रन्थिश्चछिद्यन्ते सर्वसंशया:।

क्षीदन्ते चास्य कर्माणि दृष्टे एवात्मनिश्वरे।।