नवग्रह कवच

यामलतन्त्र के अनुसार

MANTRA

Sandeep Bhatt

4/11/20251 min read

ॐ शिरो मे पातु मार्तण्ड: कपालं रोहिणीपतिः ।

मुखमड्गारकः पातु कण्ठं च शशिनन्दनः ।।

बुद्धिं जीवः सदा पातु ह्रदयं भृगुनन्दनः ।

जठरं च शनिः पातु जिह्वां मे दितिननंदनः ।।

पादौ केतुः सदा पातु वाराः सर्वाड्गमेव च ।

तिथयोऽष्टौ दिशः पान्तु नक्षत्राणि वपुः सदा ।।

अंसौ राशिः सदा पातु योगश्च स्थैर्यमेव च ।

सुचिरायुः सुखी पुत्री युद्धे च विजयी भवेत्।।

योगात् प्रमुच्यते रोगी बन्धो मुच्येत बन्धनात्।

श्रियं च लभते नित्यं रिष्टिस्तस्य न जायते।

यः करे धारयेत् नित्यं तस्य रिष्टर्न जायते।।

पठनात् कवचस्यास्य सर्वपापात् प्रमुच्यते।

मृतवत्सा च या नारी काकवन्ध्या च या भवेत्।।

जीववत्सा पुत्रवती भवत्येव न संशयः।।

एतां रक्षां पठेद् यस्तु अंङ्ग स्पृष्टवापि वा पठेत्।।