संकष्टनाशन श्रीगणेश स्त्रोत

Ganpati stuti । गणपति स्तुति । श्री गणेशाय नमः

MANTRA

Astrologer Seema Nagpal

7/14/20251 min read

।। संकष्टनाशनं श्री गणपति स्तोत्रं।।

।।नारद उवाच ।।

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्।

भक्तावासं स्मरेन्नित्यमायु: कामार्थसिद्धये।।१

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्।

तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम्।।२

लम्बोदरं पंचमं च षष्ठं विकटमेव च।

सप्तमं विघ्नराजेन्द्रं धूमर्वणं तथाष्टमम्।।३

नवमं भालचंद्रं च दशमं तु विनायकम्।

एकादशं गणपतिं द्वादशं तु गजाननम्।।४

द्वादशैतानि नामानि त्रिसंध्यमं य: पठेन्नर:।

न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो।।५

विधार्थी लभते विधां धनार्थी लभते धनम्।

पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम्।।६

जपेद् गणपति स्तोत्रं षड्भिर्मासै: फलं लभेत्।

संवत्सरेण सिद्धि च लभते मात्र संशय:।।७

अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत्।

तस्य विधा भवेत्सर्वा गणेशस्य प्रसादत:।।

।।श्रीनारदपुणे संकष्टनाशन नाम गणेश स्त्रोत सम्पूर्णं।।