Narayan Kavach (नारायण कवच)

Narayan Kavach ( नारायण कवच ) by Shri K.N. Rao

Sandeep Bhatt

1 min read

गणेश मंत्र (एक बार)

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ।

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा।

गुरु मंत्र (एक बार)

गुरुर्बह्मा गुरुर्विष्णुः, गुरुर्देवो महेश्वरः ।

गुरुः साक्षात् परब्रह्म, तस्मै श्रीगुरुवे नमः।।

महामृत्युंजय मंत्र (27 बार)

ॐ त्र्यम्बकं यजामहे, सुगन्धिम् पुष्टि वर्द्धनम्।

उर्वारुकमिव बन्धनान् , मृत्योर्मुक्षीय मामृतात।।

आरोग्य मंत्र (नारायणयीयम्) (3 बार)

अस्मिन् परात्मन् ननु पाद्मकल्पे,

त्वमित्थ मुत्थापित पद्मयोनिः।

अन्नतभूमा मम रोगराशिं,

निरुन्धि वातालयवास विष्णो।।

ध्रुव मंत्र (श्रीमद्भागवत) (3 बार)

योऽन्तः प्रविष्य मम वाचमिमाम् प्रसुप्ताम् ,

संजीवयत्यखिल शक्तिधरः स्वधाम्ना ।

अन्यांश्च हस्तचरण श्रवणत्वगादीन्,

प्राणान्नमो भगवते पुरुषाय तूभ्यम् ।।

नारायण कवच (3 बार)

शान्ताकारं भुजगशयनं, पद्मनाभं सुरेशं।

विश्वाधारं गगनसदृशं, मेघवर्णं शुभाङ्गम्।।

लक्ष्मीकांतं कमलनयनं, योगिभिर्ध्यानगम्यं।

वन्दे विष्णुं भवभयहरं, सर्वलोकैकनाथम्।।

ॐ श्री विष्णवे नमः। (3 बार पढ़े)

नमो नारायणय। (3 बार पढ़े)

ॐ नमो भगवते वासुदेवाय। (3 बार पढ़े)

आत्मानं परमं ध्यायेद् ,ध्येयं षट्शक्तिभिर्युतम् ।

विद्यातेजस्तपोमूर्तिः, मम मन्त्रमुदाहरेत् ।। 1।।

ॐ हरिर्विदध्यान्मम सर्वरक्षां,

न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे।

दरारिचर्मासिगदेषुचाप

पाशान् दधानोऽष्टगुणोऽष्टबाहुः।। 2।।

जलेषु मां रक्षतु मत्स्यमूर्ति:

यादोगणेभ्यो वरुणस्य पाशात्।

स्थलेषु मायावटुवामनोऽव्यात्

त्रिविक्रमः खेऽवतु विश्वरूपः।। 3।।

दुर्गेष्वटव्याजिमुखादिषु प्रभुः

पायान्नृसिंहोऽसुरयूथपारिः।

विमुञ्चतो यस्य महाट्टहासम्

दिशो विनेदुर्न्यपतंश्च गर्भाः।। 4।।

रक्षत्वसौ माध्वनि यज्ञकल्पः

स्वदंष्ट्रयोन्नीतधरो वराहः।

रामोऽद्रिकूटेष्वथ विप्रवासे

सलक्ष्मणोऽव्याद् भरताग्रजोऽस्मान् ।। 5।।

मामुग्रधर्मादखिलात् प्रमादन्

नारायणः पातु नरश्च हासात् ।

दत्तस्तवयोगदथ योगनाथः

पायाद् गुणेशः कपिलः कर्मबन्धात् ।। 6।।

सनत्कुमारोऽवतु कामदेवा

अद्धयशीर्षा माम पथि देवहेलनात् ।

देवर्षिवर्यः पुरुषार्चनान्तरात्

कूर्मो हरिर्मां निरयादशेषात् ।। 7।।

धन्वन्तरिर्भगवान् पात्वपथ्याद्

द्वन्द्वाद् भयादृषभो निर्जितात्मा ।

यज्ञश्च लोकादवताज्जनान्ताद्

बलो गणात् क्रोधवशादहीन्द्रः ।। 8।।

द्वैपायनो भगवानप्रबोधाद्

बुद्धस्तु पाखण्डगणात् प्रमादात् ।

कल्किः कलेः कालमलात् प्रपातु

धर्मावनायोरुकृतावतारः ।। 9।।

माम् केशवो गदया प्रातरव्याद्

गोविन्द आसङ्गवमात्तवेणुः ।

नारायणः प्राह्ण उदात्तशक्तिः

मध्यन्दिने विष्णुररिन्द्रपाणिः।।10।

देवोऽपराह्णे मधुहोग्रधन्वा

सायं त्रिधामावतु माधवो माम् ।

दोषे हृषीकेश उतार्धरात्रे

निशीथ एकोऽवतु पद्मनाभः।।11।।

श्रीवत्सधामापररात्र ईशः

प्रत्यूष ईशोऽसिधरो जनार्दनः ।

दामोदरोऽव्यादनुसन्ध्यं प्रभाते

विश्वेश्वरो भगवान् कालमूर्तिः ।।12।।

चक्रं युगान्तानलतिग्मनेमि

भ्रमत् समन्ताद् भगवत्प्रयुक्तम् ।

दन्दग्धि दन्दग्ध्यरिसैन्यमाशु

कक्षं यथा वातसखो हुताशः ।।13।।

गदेऽशनिस्पर्शनविस्फुलिङ्गे

निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि।

कूष्माण्डवैनाकयक्षरक्षो

भुतग्रहांश्चूर्णय चूर्णयारीन् ।।14।।

त्वं यातुधानप्रमथप्रेतमातृ

पिशाचविप्रग्रहघोरदृष्टीन् ।

दरेन्द्र विद्रावय कृष्णपूरितो

भीमस्वनोऽरेर्हृदयानि कम्पयन् ।।15।।

त्वं तिग्मधारासिवरारिसैन्य

मीशप्रयुक्तो मम छिन्धि छिन्धि।

चक्षूंषि चर्मञ्छतचन्द्र छादय

द्विषामघोनां हर पापचक्षुषाम् ।।16।।

यन्नो भयं ग्रहेभ्योऽभूत , केतुभ्यो नृभ्य एव च।

सरीसृपेभ्यो दंष्ट्रिभ्यो,भूतेभ्योंऽहोभ्य एव वा।।17।।

सर्वाण्येतानि भगवन्नाम, रूपास्त्रकीर्तनात ।

प्रयान्तु संक्षयं सद्यो, ये नः श्रेयः प्रतीपकाः।।18।।

गरुडो भगवान् स्तोत्रः, तोभश्छन्दोमयः प्रभुः।

रक्षत्वशेषकृच्छ्रेभ्यो, विष्वक्सेनः स्वनामभिः।19।।

सर्वापद्भ्यो हरेर्नाम, रूपयानायुधानि नः ।

बुद्धीन्द्रियमनः प्राणान्, पान्तु पार्षदभूषणाः।।20।।

यथा हि भगवानेव, वस्तुतः सदसच्च यत्।

सत्येनानेन नः सर्वे, यान्तु नाशमुपद्रवाः ।।21।।

यथैकात्म्यानुभावानाम् ,विकल्परहितः स्वयम्।

भूषणायुधलिङ्गाख्या, धत्ते शक्तीः स्वमायया।।22।।

तेनैव सत्यमानेन, सर्वज्ञो भगवान् हरिः ।

पातु सर्वैः स्वरूपैर्नः, सदा सर्वत्र सर्वगः ।।23।।

विदिक्षु दिक्षूः ध्वमधः समन्ता

दन्तर्बहिर्भगवान् नारसिम्हः।

प्रहापयँल्लोकाभयं स्वनेन

स्वतेजसा ग्रस्तसमस्ततेजाः।। 24।।

राम नाम वरानन् मंत्र (3 बार पढ़े )

श्री राम राम रामेति रमे रामे मनोरमे ।

सहस्रनाम तत्तुल्यम् राम नाम वरानने ।।

राम नाम वरानन् ॐ नम् इति

अष्टालक्ष्म्यै प्रणाम मंत्र (1 बार पढ़े )

ॐ आद्य लक्ष्म्यै नमः

ॐ विद्यालक्ष्म्यै नमः

ॐ सौभाग्य लक्ष्म्यै नमः

ॐ अमृत लक्ष्म्यै नमः

ॐ कामलक्ष्म्यै नमः

ॐ सत्यलक्ष्म्यै नमः

ॐ भोगलक्ष्म्यै नमः

ॐ योगलक्ष्म्यै नमः

क्षमा मंत्र (1 बार पढ़े )

करचरणकृतम् वाक्कायजम् कर्मजम् वा

श्रवणनयनजम् वा मानसम् वापराधम् ।

विहिमविहितम् वा सर्व मेतत्क्षमस्व

जय जय करुणाब्धे श्रीमहादेव शम्भो ।।

प्रणाम मंत्र (1 बार पढ़े )

ॐ कृष्णाय वासुदेवाय हरये परमात्मने ।

प्रणतः क्लेशनाशाय गोविन्दाय नमो नमः ।।

सूर्य मंत्र (3 बार पढ़े)

ॐ घृणिः सूर्य आदित्य ओम

महामृत्युंजय मंत्र (3 बार पढ़े)

ॐ त्र्यम्बकं यजामहे, सुगन्धिम् पुष्टि वर्द्धनम्।

उर्वारुकमिव बन्धनान् , मृत्योर्मुक्षीय मामृतात।।

भगवान कृष्ण योगेश्वर मंत्र (3 बार पढ़े)

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।

तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम।।